त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः।
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः॥ (61 - वर्धते)
क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति॥ (62 - वर्धते)
परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत्।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः॥(63-वर्धते)
यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः।
मित्रेण सह यो भुङ्क्ते ततो नास्ती। पुण्यवान्॥ (64-वर्धते)
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः॥ (65 - वर्धते)
दिनमेकं शशी पूर्णः क्षीणस्तु बहुवासरान्।
सुखाद्दुःखं सुराणामप्यधिकं का कथा नृणाम्॥ (66 - वर्धते)
महद्भिः स्पर्धमानस्य विपदेव गरीयसी।
दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे॥ (67 - वर्धते)
परेषामात्मनश्चैव योऽविचार्य बलाबलम्।
कार्याय उत्तिष्ठते मोहात् आपदः स समीहते॥ (68 - वर्धते)
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्।
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥ (69 - वर्धते)
अध्रुवेण शरीरेण प्रतिक्षणविनाशिना।
ध्रुवं यो नार्जयेत् धर्मं स शोच्यो मूढचेतनः॥ (70 - वर्धते)

No comments:
Post a Comment