वज्रादपि कठोराणि मृदूणि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति॥ (51 - वर्धते)
विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः।
आवेष्टितं महासर्पैः चन्दनं न विषायते॥ (52 - वर्धते)
सुजनं व्यजनं मन्ये चारुवंशसमुद्भवम्।
आत्मानं च परिभ्राम्य परतापनिवारणम्॥ (53 - वर्धते)
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः।
माता पृथिव्याः मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः॥ (54 - वर्धते)
स्नेहच्छेदेऽपि साधूनां गुणा नाऽयान्ति विक्रियाम्।
भङ्गेनाऽपि मृणालानाम् अनुबध्नन्ति तन्तवः॥ (55 - वर्धते)
दन्तिदन्तसमानं हि निसृतं महतां वचः।
कूर्मग्रीवेव नीचानां पुनरायाति याति च॥ (56 - वर्धते)
दुर्जनेन समं सख्यं प्रीतिं वा नैव कारयेत्।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्॥ (57 - वर्धते)
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥ (58 - वर्धते)
लोभाविष्टो नरो वित्तं वीक्षते न तु सङ्कटम्।
दुग्धं पश्यति मार्जारो न तथा लगुडाहतिम्॥ (59 - वर्धते)
खलः करोति दुर्वृत्तं नूनं फलति साधुषु।
दशाननोऽहरत्सीतां बन्धनं तु महोदधेः॥ (60 - वर्धते)

No comments:
Post a Comment