10 Aug 2014

सुभाषितानि 41 - 50

न प्रहृष्यति संमाने नापमाने च कुप्यति।
न क्रुद्धः परुषं ब्रूयात् स वै साधूत्तमः स्मृतः॥ (41 - वर्धते)


न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्।
कालस्य बलमेतद्धि विपरीतार्थदर्शनम्॥ (42 - वर्धते)

गुणेषु क्रियताँ यत्नः किमाटोपै: प्रयोजनम्।
विक्रियन्ते न घण्टाभि: गावः क्षीरविवर्जितः॥ (43 - वर्धते)

असद्भि: शपथेनोक्तं जले लिखितमक्षरम्।
सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम्॥ (44 - वर्धते)

मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्।
मनस्यन्यत् वचस्यन्यत् कर्मण्यन्यत् दुरात्मनाम्॥ (45 - वर्धते)

आर्ता देवान् नमस्यन्ति तपः कुर्वन्ति रोगिनः।
निर्धना: दानमिच्छन्ति वृद्धा नारी पतिव्रता॥ (46 - वर्धते)

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्।
संनियम्य तु तान्येव ततः सिद्धिं नियच्छति॥ (47 - वर्धते)

शोकाऽरातिभयत्राणां प्रीतिविश्रम्भभाजनम्।
केन रत्नमिदं स्रष्टं मित्रमित्यक्षरद्वयम्॥ (48 - वर्धते)

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे॥ (49 - वर्धते)

न जातु कामः कामान् उपभोगेन शाम्यति। 
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ (50 - वर्धते)

No comments: