10 Aug 2014

सुभाषितानि 31 - 40

छायामन्यस्य कुर्वन्ति स्वयं तिष्ठन्ति चातपे।
फलान्यपि परार्थाय वृक्षा: सत्पुरौषा इव॥ (31 - वर्धते)

किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम्।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम्॥ (32 - वर्धते)

कर्णस्त्वचं शिबिर्माँसं जीवं जीमूतवाहनः।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम्॥ (33 - वर्धते)

गुणा: कुर्वन्ति दूतत्वं दूरेऽपि वसताँ सताम्।
केतकीगन्धमाघ्राय स्वयं गच्छन्ति षट्पदा:॥ (34 - वर्धते)

गुणवज्जनसंसर्गात् याति नीचोऽपि गौरवम्।
पुष्पमालानुषङ्गेन सूत्रं शिरसि धार्यते॥ (35 - वर्धते)

उपकारान् स्मरेन्नित्यम् अपकाराँश्च विस्मरेत्।
शुभे शैघ्र्यं प्रकुर्वीत अशुभे दीर्घसूत्रताम्॥ (36 - वर्धते)

अरावप्युचितं कार्यं आतिथ्यं गृहमागते।
छेत्तु: पार्श्वगताँ छायाँ नोपसंहरते द्रुमः॥ (37 - वर्धते)

दूरस्थोऽपि न दूरस्थः यो यस्य मनसि स्थितः।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः॥ (38 - वर्धते)

दिवसेनैव तत्कुर्यात् येन रात्रौ सुखं वसेत्।
यावज्जीवं च तत्कुर्यात् येन प्रेत्य सुखं वसेत्॥ (39 - वर्धते)

खलः सर्षपमात्राणि परच्छिद्राणि पश्यति।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥ (40 - वर्धते)

No comments: