षड् गुणा: पुरुषेणेह त्यक्तव्या न कदाचन।
सत्यं दानमनालस्यमनसूया क्षमा धृति:॥ (21 - वर्धते)
सिँहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्।
वायसात् पञ्च शिक्षेच्च षड् शुनस्त्रीणि गर्दभात्॥ (22 - वर्धते)
प्रवृत्तं कार्यमल्पं वा यो नरः कर्तुमिच्छति।
सर्वारम्भेण तत्कार्यं सिँहादेकं प्रचक्षते॥ (23 - वर्धते)
इन्द्रियाणि च संयम्य बकवत्पण्डितो नरः।
देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत्॥ (24 - वर्धते)
प्रागुत्थानञ्च युद्धञ्च संविभागश्च बन्धुषु।
स्वयमाक्रम्यभुक्तिश्च शिक्षेच्चत्वारि कुक्कुटात्॥ (25 - वर्धते)
गूढमैथुनधीरत्वं काले काले च संग्रहम्।
अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात्॥ (26 - वर्धते)
बह्वाशी स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः।
स्वामिभक्तिश्च शूरत्वं षडेते श्वानतो गुणा:॥ (27 - वर्धते)
सुश्रान्तोऽपि वहेद्भारं शीतोष्णौ न च पश्यति।
सन्तुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात्॥ (28 - वर्धते)
शान्तितुल्यं तपो नास्ति तोषान्न परमं सुखम्।
नास्ति तृष्णापरो व्याधि: न च धर्मो दयापरः॥ (29 - वर्धते)
कुसुमं वर्णसंपन्नं गन्धहीनं न शोभते।
न शोभते क्रियाहीनं मधुरं वचनं तथा॥ (30 - वर्धते)

No comments:
Post a Comment