यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ (11 - वर्धते)
अश्वस्य भूषणं वेगः मत्तं स्यात् गजभूषणम्।
चातुर्यं भूषणं नार्या उद्योगो नरभूषणम्॥ (12 - वर्धते)
चातुर्यं भूषणं नार्या उद्योगो नरभूषणम्॥ (12 - वर्धते)
आत्मनो मुखदोषेण बध्यन्ते शुकसारिका:।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्॥ (13 - वर्धते)
अल्पानामपि वस्तूनाँ संहति: कार्यसाधिका।
तृणैर्गुणत्वमापन्नै: बध्यन्ते मत्तदन्तिनः॥ (14 - वर्धते)
तृणैर्गुणत्वमापन्नै: बध्यन्ते मत्तदन्तिनः॥ (14 - वर्धते)
अन्नदानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्ति: यावज्जीवं तु विद्यया॥ (15 - वर्धते)
अन्नेन क्षणिका तृप्ति: यावज्जीवं तु विद्यया॥ (15 - वर्धते)
कुसुमं वर्णसंपन्नं गन्धहीनं न शोभते।
न शोभते क्रियाहीनं मधुरं वचनं तथा॥ (16 - वर्धते)
न शोभते क्रियाहीनं मधुरं वचनं तथा॥ (16 - वर्धते)
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम्॥ (17 - वर्धते)
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम्॥ (17 - वर्धते)
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानाँ तु वसुधैव कुटुम्बकम्॥ (18 - वर्धते)
गर्वाय परपीडाय दुर्जनस्य धनं बलम्।
सज्जनस्य तु दानाय रक्षणाय च ते सदा॥ (19 - वर्धते)
सज्जनस्य तु दानाय रक्षणाय च ते सदा॥ (19 - वर्धते)
षड् दोषा: पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता॥ (20 - वर्धते)
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता॥ (20 - वर्धते)
No comments:
Post a Comment