4 Dec 2014

सुभाषितानि 71 - 80

गुरोर्यत्र परीवादः निन्दा वाऽपि प्रवर्तते।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः॥ (71 - वर्धते) 

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते॥(72 - वर्धते) 

अन्नदानं महादानं विद्यादानं महत्तरम्।
अन्नेन क्षणिका तृप्तिः यावज्जीवं तु विद्यया॥ (73 - वर्धते)


No comments: